दशहरा पर संस्कृत में निबंध , विजयादशमी संस्कृत में निबंध, Dashahara par sanskrit nibandh लिखने को बोला जाए तो इस निबंध को लिख सकते हैं ।

विजयादशमी संस्कृत में निबंध
भारतवर्षे अनेके विविधाश्च उत्सवाः प्रचलन्ति। यथा धार्मिकोत्सवाः, सामाजिकोत्सवाः, महापुरुष जन्मोत्सवाः राष्ट्रियोत्सवाश्च। एषुत्सवेषु धार्मिकोत्सवाः महत्त्वपूर्णाः। यतः भारतीयाःधर्मप्राणाः सन्ति। तेष्वपि विजयादशमी महोत्सवः विशेषेण महत्वपूर्णः अस्ति।
अयमुत्सवः आश्विनमासस्य शुक्लपक्षे दशम्यां तिथौ भवति । अस्मिन् समये वर्षतुः समाप्तिमुपयाति शरच्चागच्छति। मार्गाः अपंकाः, सुखदं वातावरणम्, निर्मलम् आकाशं च सर्वमेव रुचिरं प्रतीयते। एवमनुश्रूयते यत् दशरथपुत्रेण श्रीरामचन्द्रेण अस्मिन्नेव दिने राक्षसराजरावणस्य विनाशाय लङ्कायाम् आक्रमणम् कृतम्। पुरा क्षत्रिया अस्मिन्नेव दिने शस्त्राणां पूजां विधाय युद्धार्थं प्रस्थानम् अकुर्वन् । इदमपि कथ्यते यत् महादेव्या भगवत्या काल्या अस्मिन्नेव दिने असुराणां विनाशः कृतः।
इममुत्सवम् प्राधान्येन क्षत्रियाः अभिनन्दन्ति। पुरा अस्मिन्नेव दिने राजगृहेषु महान् उत्सवः अभवत्। यद्यपि सम्प्रति राज्ञां नामशेषमेव जातं तत्र उत्सवः सम्पद्यते। क्षत्रियवर्णम् अन्तरेण अन्ये वर्णा अपि इममुत्सवं सोल्लासम् अभिनन्दन्ति । क्षत्रियाः ब्राह्मणाः वैश्याः शुद्राश्च सर्व एव अस्मिन् उत्सवे उल्लसन्ति ।
अस्मिन् अवसरे समस्ते भारते ग्रामे-ग्रामे, नगरे-नगरे च रामलीलायाः प्रदर्शनं भवति। असंख्याः जनाः आबालवृद्धाः रामलीलोत्सवं द्रष्टुम् गच्छन्ति तत्र रावणवधं, तद्दहनं च दृष्ट्वा आमोदन्ते । अस्योत्सवस्य प्रधानः सन्देशः अस्ति यत् दशसु इन्द्रियेषु विजयः प्राप्तव्यः । यदि वयं स्वेन्द्रियाणि संयम्य रावणरूपम् अहंकारम् नक्ष्यामस्तु तदा वयं नूनं संसारे विजयं प्राप्स्यामः ।
दशहरा पर संस्कृत में निबंध , विजयादशमी संस्कृत में निबंध, Dashahara par sanskrit niband । Mam vidyalaya sanskrit nibandh | मम् विद्यालय संस्कृत निबंध ,Mam vidyalaya sanskrit nibandh | मम् विद्यालय संस्कृत निबंध,Sanskrit me nibandh kaise likhe | संस्कृत में निबंध कैसे लिखें ।
1 thought on “विजयादशमी संस्कृत में निबंध | Dashahara”