Sadachar Nibandh in Sanskrit || सदाचार का संस्कृत में निबंध

Sadachar Nibandh in Sanskrit , सदाचार का संस्कृत में निबंध , आचारः प्रथमो धर्मः, शीलं परं भूषणम् , आचारः परमो धर्मः –इस तरह के किसी भी टापिक पर निबंध लिखने को मिले तो निम्न प्रकार से लिखेगें।

Sadachar Nibandh in Sanskrit

Sadachar Nibandh in Sanskrit

सत् आचरणमेव सदाचारः कथ्यते । यथा सत्पुरुषाः आचरन्ति तथैव आचरणमपि सदाचारः उच्यते। उत्तमजीवनस्य सर्वोत्तमं साधनं सदाचार एव अस्ति । सदाचारवान् नरः सुखं प्राप्नोति । स धार्मिको, बुद्धिमान् दीर्घायुश्च भवति । सदाचारस्य अन्याः बहवः गुणाः सन्ति। यथा माता पितरौ गुरूणां च आज्ञायाः पालनं वन्दनं च अहिंसा, परोपकारः, नम्रता, दयादयश्च ।

सत्यमेव उक्तम्

आचाराल्लभते ह्यायुराचारादीप्तिताः प्रजाः । आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥

सामाजिकोत्थानाय सदाचारस्य महती आवश्यकता वर्तते । यः जनः सत्यं वदति, नित्यं माता-पितरौ अभिवादयति, गुरुजनानाम् आदरं करोति, परोपकारं च करोति, तस्य जनस्य आयुर्विद्यादि वद्धन्ते ।

अभिवादनशीलस्य नृत्यं वृद्धोपसेविनः ।

चत्वारि तस्य वर्धन्ते आयुर्विद्या यशोबलम् ॥

मूर्खाणामेव जीवनं सदाचारविहीनं भवति । सोऽल्पायुः भवति तस्य सर्वत्र निरादरो भवति । आचारहीनः पुरुषः धर्महीनः पुण्यहीनश्च भवति । सदाचारेण नरस्य आदरो भवति। जगति तस्य प्रतिष्ठा भवति। अस्माकं देशे काले काले बहवः सदाचारिणोऽभवन् । | सदाचारेण श्रीरामचन्द्रः मर्यादा पुरुषोत्तमोऽभवत् राणासेतारादयोपि सदाचारिणः आसन् । सदाचारेण मानवः राष्ट्रस्य समाजस्य च कल्याणं कर्तुं शक्नोति । अतोऽस्माभिः सदाचारस्य पालनं कर्तव्यम् मनुनाप्युक्तम्-

सर्वलक्षणहीनोऽपि यः सदाचारवान् नरः ।

श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥

Sadachar Nibandh in Sanskrit 10 lines

  • सत् आचरणमेव सदाचारः कथ्यते ।
  • यथा सत्पुरुषाः आचरन्ति तथैव आचरणमपि सदाचारः उच्यते।
  • उत्तमजीवनस्य सर्वोत्तमं साधनं सदाचार एव अस्ति ।
  • सदाचारवान् नरः सुखं प्राप्नोति ।
  • स धार्मिको, बुद्धिमान् दीर्घायुश्च भवति ।
  • सदाचारस्य अन्याः बहवः गुणाः सन्ति।

Sadachar Nibandh in Sanskrit

Sadachar Nibandh in Sanskrit , सदाचार का संस्कृत में निबंध , आचारः प्रथमो धर्मः, शीलं परं भूषणम् , आचारः परमो धर्मः –इस तरह के किसी भी टापिक पर निबंध लिखने को मिले तो इसी प्रकार से लिखेगें।

इसे भी पढ़ें 👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
इसे भी पढ़ें Click Here
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit

1 thought on “Sadachar Nibandh in Sanskrit || सदाचार का संस्कृत में निबंध”

  1. Pingback: Cow in Sanskrit

Leave a Comment