मम प्रियं पुस्तकम् | Mam Priy Pustakam

मम प्रियं पुस्तकम् ,Mam Priy Pustakam, कश्चिद् ग्रन्थः, मदीयं प्रियपुस्तकम्, रामायणं इनमें से किसी भी एक पर निबंध लिखने को कहा जाए तो आप इस प्रकार से लिख सकते हैं।

Mam Priy Pustakam

Mam Priy Pustakam

रामायणं लौकिक संस्कृत भाषानिबद्धम् आदिकाव्य इति कथ्यते । अस्य ग्रन्थस्य रचना आदिकविना वाल्मीकिना कृता । अस्मिन् महाकाव्ये भगवतो रामचन्द्रस्य चरितं वर्णितं वर्तते । अस्मिन् काव्ये सप्तकाण्डानि सन्ति । दशरथनन्दनो रामो मानवतायाः आदर्शभूतः । त्रेतायुगे जातस्य परमादर्शभूतस्य रघुवंशस्य विविधाः कथाः जनैः सावधानतया कथ्यन्ते श्रूयन्ते च । महर्षि वाल्मीकिना रघुवंश चूडामणेः श्रीराम भद्रस्य सर्वाः कथाः रामायणे विलिखिताः।

रामायणम् उपजीव्य लौकिक संस्कृति भाषान्तरे च बहुनां काव्यानां दृश्य-काव्यानां च-रचना भूता । अत्र करुणरसः स्वाभाविकरूपेण मनोहरति । काव्य रसपानरसिकाः विलक्षण विचक्षणा उत्तममहाकाव्य निर्देशावसरे रामायणी कथां प्रथमाद्रियन्ते । न केवलं विविध रसालंकार गुण- छन्दसां प्रयोगचमत्कारेण अपितु रामादिलोकप्रसिद्धपात्राणाम् आदर्शभूत चरित्रचित्रकारणेन अस्याः कथायावैशिष्ट्यं विद्वद्भिः स्वीक्रियते । रामायणी कथायाः पात्रसृष्टि सजीवा व्यक्तित्व परिपूर्णा च दृश्यते । विश्वविश्रुतासु संस्कृतिषु ‘भारतीय संस्कृति’ सर्वदा एव स्वान्तर्निहित गौरवेण प्राथम्यं भजते, तस्याः संस्कृतेः स्त्रोतो-रूपेण रामायणी कथाया उल्लेखः कर्तुं शक्यते। रामायणग्रन्थे भावगाम्भीर्यं, भाषावैभवं, शैली रमणीयकं, परिष्कृतिप्राचुर्यं काव्य विभूतिः च पदे पदेऽवलोक्यते । पित्रोराज्ञापालनम् भ्रातृप्रेमवैशिष्ट्यं पातिव्रतपरिपालनम् आपदि-धैर्यस्वीकरणं विदेशे नीतिव्यवहरणं च रामायणे विभिन्नकथासु परिपूरितं विद्यते ।

इसे भी पढ़ें 👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit,

1 thought on “मम प्रियं पुस्तकम् | Mam Priy Pustakam”

Leave a Comment

%d bloggers like this: