विजयादशमी संस्कृत निबंध | Dussehra par Sanskrit me Nibandh

विजयादशमी संस्कृत निबंध | Dussehra par Sanskrit me Nibandh लिखने को कहा जाय तो इस प्रकार से लिखेगें । जो भी लिखें स्पष्ट शब्दों में लिखें। इससे अच्छे अंक मिलते हैं।

Dussehra par Sanskrit me Nibandh

Dussehra par Sanskrit me Nibandh

भारतवर्षे अनेके विविधाश्च उत्सवाः प्रचलन्ति । यथा धार्मिकोत्सवाः, सामाजिकोत्सवाः, महापुरुषजन्मोत्सवाः राष्ट्रियोत्सवाश्च । एषूत्सवेषु धार्मिकोत्सवाः महत्त्वपूर्णाः । यतः भारतीयाः धर्मप्राणाः सन्ति । तेष्वपि विजयादशमी महोत्सवः विशेषेण महत्त्वपूर्णः अस्ति ।

अयमुत्सवः आश्विनमासस्य शुक्लपक्षे दशम्यां तिथौ भवति । अस्मिन् समये वर्षर्तुः समाप्तिमुपयाति शरच्चागच्छति । मार्गाः अपङ्काः , सुखदं वातावरणम् , निर्मलम् आकाशं च सर्वमेव रुचिरं प्रतीयते । एवमनुश्रूयते यत् दशरथपुत्रेण श्रीरामचन्द्रेण अस्मिन्नेव दिने राक्षसराजरावणस्य विनाशाय लङ्कायाम् आक्रमणम् कृतम् । पुरा क्षत्रिया अस्मिन्नेव दिने शस्त्राणां पूजां विधाय युद्धार्थं प्रस्थानम् अकुर्वन् । इदमपि कथ्यते यत् महादेव्या भगवत्या काल्या अस्मिन्नेव दिने असुराणां विनाशः कृतः । Dussehra par Sanskrit me Nibandh

इममुत्सवम् प्राधान्येन क्षत्रियाः अभिनन्दन्ति । पुरा अस्मिन्नेव दिने राजगृहेषु महान् उत्सवः अभवत्। यद्यपि सम्प्रति राज्ञां नामशेषमेव जातं तत्र उत्सवः सम्पद्यते। क्षत्रियवर्णम् अन्तरेण अन्ये वर्णा अपि इममुत्सवं सोल्लासम् अभिनन्दन्ति । क्षत्रियाः ब्राह्मणाः वैश्याः शूद्राश्च सर्व एव अस्मिन् उत्सवे उल्लसन्ति।

अस्मिन् अवसरे समस्ते भारते ग्रामे ग्रामे, नगरे-नगरे च रामलीलायाः प्रदर्शनं भवति। असंख्याः जनाः आबालवृद्धाः रामलीलोत्सवं द्रष्टुम् गच्छन्ति तत्र रावणवधं , तद्दहनं च दृष्ट्वा आमोदन्ते । अस्योत्सवस्य प्रधानः सन्देशः अस्ति यत् दशसु इन्द्रियेषु विजयः प्राप्तव्यः । यदि वयं स्वेन्द्रियाणि संयम्य रावणरूपम् अहंकारम् नक्ष्यामस्तु तदा वयं नूनं संसारे विजयं प्राप्स्यामः । Dussehra par Sanskrit me Nibandh

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉पर्यायवाची शब्दClick Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit, Janmdin Ki Badhai Sanskrit Me, Vegetables Name in Sanskrit,

2 thoughts on “विजयादशमी संस्कृत निबंध | Dussehra par Sanskrit me Nibandh”

Leave a Comment