मम प्रिय भाषा संस्कृत निबंध | Mam Priya Bhasha Sanskrit Nibandha

मम प्रिय भाषा संस्कृत निबंध , Mam Priya Bhasha Sanskrit Nibandha, संस्कृतभाषायाः महत्वम् , अगर आप को इस विषय पर निबंध लिखने के लिए मिले तो बहुत ही ध्यान से छोटे छोटे वाक्यों में लिखें । इससे त्रुटियां नहीं होगी ।

Mam Priya Bhasha Sanskrit Nibandha

Mam Priya Bhasha Sanskrit Nibandha

1.संस्कृतम् अस्माकं प्रियभाषा अस्ति।

2. अतीव प्राचीना विश्वस्य भाषा अस्ति ।

3. देव भाषा इत्यपि कथ्यते ।

4. अस्माकं देशे संस्कृतस्य महत् महत्त्वम् अस्ति।

5.सर्वे वेदपुराणानि संस्कृते एव लिखितानि सन्ति।

6. इयमेव सर्वासाम् आर्यभाषाणाम् जननी मता।

7.अस्याः भाषायाः वैशिष्ट्मस्याः व्याकरणापि ज्ञायते ।

8. तदैव आधुनिकः शिक्षितः जनः अनुभविष्यति , निश्चेष्यति च ।

संस्कृतभाषायाः महत्वम् (sanskrit bhasha ka mahatva sanskrit mein)

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा, सर्वोत्कृष्ट साहित्य समन्वित च अस्ति। इयमेव सर्वासाम् आर्यभाषाणाम् जननी मता। इयं भाषा वैदिक भाषातोः निःसृताऽस्ति । विद्यमानेषु निखिलेषु अपि साहित्येषु अस्याः भाषायाः साहित्यं सुविपुलं , सर्वश्रेष्ठं सुसम्पन्नञ्चास्ति । तत्र ग्रन्थानां संख्या पञ्चाशत सहस्राद् अपि अधिका वर्तते । वैदिके साहित्ये मन्त्रसंहितात्मक ऋग्वेदयजुर्वेदसामवेदाथर्ववेद-ब्राह्मणआरण्यक उपनिषत्सूत्रग्रन्थाः प्रातिशाख्य अनुक्रमणीग्रन्थाः समायान्ति । लौकिके साहित्ये रामायण- महाभारतपुराणस्मृतिदर्शनकाव्यग्रन्थादयः परिगणिताः भवन्ति । इदं समग्रमेव वाङ्मय अभ्युदय निःश्रेयस् मूलमभिमन्यते । अत्र आधुनिक भौतिक विज्ञानमपि बीजरूपेण विवेचितमस्ति । संसारस्य कस्याऽपि भाषायाः साहित्यं संस्कृतसाहित्यस्य साम्यं नैवाधिगच्छति। अतएव संस्कृतस्य गौरवम्, आचार्यवरोः दण्डी इत्थं सत्यमेव उक्तम्- ‘संस्कृतं नाम दैवीवागन्वाख्याता महर्षिभिः’।Mam Priya Bhasha Sanskrit Nibandha

संस्कृत साहित्यं नवभिः रसैः विभूषितम्, रीतिगुणालंकारादिभिः समलङ्कृतञ्च अस्ति रसादिध्वनिः अस्यात्मा । वैज्ञानिकञ्च अस्याः व्याकरणं सुनिश्चितं कं सुधियं नो मोहयति । अत्र गद्ये पद्ये च लालित्यं भावबोध सामर्थ्यमद्वितीयमस्ति । चरित्रनिर्माणाय यादृशीं प्रेरणा संस्कृतसाहित्यं प्रददाति तादृशीं प्रेरणाम् अन्यत्साहित्यं न ददाति।अस्याः भाषायाः वैशिष्ट्मस्याः व्याकरणापि ज्ञायते । अस्य मूलं यद्यपि ब्राह्मणग्रन्थेषु प्रातिशाख्यग्रन्थेषु च द्रष्टुं शक्यते परन्तु महर्षेः पाणिनेः अष्टाध्यायी, अस्याः महर्षि पतञ्जलिप्रणीतं महाभाष्यं तथा कात्यायनकृताः वार्तिका संस्कृत व्याकरणस्य महनीयं महत्त्वं ख्यापयन्ति । व्याकरणज्ञानमन्तरेण कथमपि संस्कृतस्य स्वर्णिम ज्ञान खनौ प्रवेशः कर्तुं नो शक्यते। संस्कृतस्य नैकाभिः विशेषताभिः सार्द्धं वैशिष्ट्यद्वयं प्रामुख्यं धत्ते । Mam Priya Bhasha Sanskrit Nibandha

भारतमातुः स्वातन्त्र्यं गौरवमखण्डत्वञ्च संस्कृतेन एव वेदितुं सुरक्षितुञ्च शक्यन्ते । यत् इयं देववाणी सर्वासु भाषासु प्राचीनतमा श्रेष्ठा च ज्ञानविज्ञानदृष्ट्या सुसमृद्धा अतएव विद्वद्भिः तत्तद्ग्रन्यानामंशैः अस्याः वैज्ञानिकत्वं सेद्धव्यम् , अन्यासां भाषाणां साहित्ये च तस्या एव अनुकरणं प्रदर्शनीयम् । तदैव आधुनिकः शिक्षितः जनः अनुभविष्यति, निश्चेष्यति च । Mam Priya Bhasha Sanskrit Nibandha

भारतीया संस्कृतिः

संस्करणं, परिष्करणं चेतसः आत्मनोः वा इति संस्कृतिः कथ्यते। संस्कृतिः मानव मनसोऽज्ञानं दूरी करोति। चित्तभयमपहरति, अविवेकान्धकारम् अपनयति, ज्ञानज्योतिप्रकाशयति, शान्तिमादधाति, कल्याणं विस्तारयति, ज्ञानं विकासयति च । किम्बहुना संस्कृति मानवस्य सर्वविधम् अकल्याणं दूरीकृत्य तस्मिन् कल्याणं आदधाति ।

सर्वेषां राष्ट्राणां स्वकीया संस्कृतिः भवति । अस्माकं भारतराष्ट्रस्यापि स्वकीया संस्कृतिः अस्ति, या भारतीया संस्कृतिः कथ्यते। इयं संस्कृतिः विश्वस्य प्राचीनतमासु संस्कृतिषु प्रधानतमा अस्ति ।

अस्यां संस्कृतौ धार्मिकभावनायाः प्रचुरता अस्ति । जीवनस्य प्रतिक्षेत्रे धर्मस्य विधानम् अस्ति। भोजन व्यापारे राजनीतौ व्यवहारै,

पठने, शयने, किम्बहुना सर्वास्वपि जीवनचर्यासु धर्मस्यैव विधानं दृश्यते । अस्यां संस्कृतौ, सर्वत्र आध्यात्मिकत्वं दृश्यते । भौतिक लिप्सां त्यक्त्वा आत्मज्ञानं कृत्वा मोक्ष प्राप्तिः एष भारतीयानां परमं लक्ष्यम् । Mam Priya Bhasha Sanskrit Nibandha

भारतीया संस्कृतिः विश्वस्त न केवलं मनुष्येषु अपितु चराचरात्मकेषु प्राणिषु पदार्थेषु च एकस्यैव परमात्मनो विभूतिम् पश्यति। अतएव भारतीयाः ऋषयः कल्याणम् ऐच्छन्–

” सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुखभाग् भवेत्॥”

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉पर्यायवाची शब्दClick Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit, Janmdin Ki Badhai Sanskrit Me, Vegetables Name in Sanskrit,

हिंदी भाषा का विकास पर निबंध | Hindi Bhasha ka Vikash par Nibandh ,

संस्कृत में निबंध कैसे लिखें | Sanskrit me nibandh kaise likhe। Mam Priya Bhasha Sanskrit Nibandha

biographyrp.com

digitallycamera.com

2 thoughts on “मम प्रिय भाषा संस्कृत निबंध | Mam Priya Bhasha Sanskrit Nibandha”

Leave a Comment