Rakshabandhan Sanskrit Nibandh | रक्षाबंधन संस्कृत निबंध

Rakshabandhan Sanskrit Nibandh | रक्षाबंधन संस्कृत निबंध , लिखने के लिए सबसे पहले उसके बारे मे अच्छी तरह सोच लें। टापिक बना लें। फिर लिखें। अगर ज्यादा जानकारी चाहिए तो संस्कृत में निबंध कैसे लिखें , को पढ़कर जान सकते हैं।

Rakshabandhan Sanskrit Nibandh

Rakshabandhan Sanskrit Nibandh

भारतदेशे उत्सवानाम् प्राचुर्यं वर्तते । अत्र अनेके उत्सवाः प्रचलन्ति । यथा धार्मिकोत्सवाः, सामाजिकोत्सवाः , महापुरुषजन्मोत्सवाः , राष्ट्रियोत्सवाः च। एषु उत्सवेषु धार्मिकोत्सवाः महत्त्वपूर्णाः यतः भारतीयाः धर्मप्राणाः सन्ति । तेष्वपि रक्षाबन्धनोत्सवः विशेषेण महत्त्वपूर्णः अस्ति। अस्योत्सवस्य महत्त्वं सर्वं एव स्वीकुर्वन्ति ।

अयं महोत्सवः श्रावणमासस्य पूर्णिमायां भवति । अयं समयः अति मनोरमम् भवति । भूमौ सर्वत्र हरीतिमा दृश्यते । वृक्षेषु कूजन्तः पक्षिणः श्रवणयोः मधु इव क्षरन्ति एवंविधे समये अयम् उत्सवः सर्वान् मोदयति । पुराणानुसारं सर्वप्रथमम् इन्द्रपत्न्या स्वपतेः इन्द्रस्य दानवेभ्यः रक्षणार्थम् तस्य हस्ते रक्षासूत्रं बद्धम् । ततः एवं अयमुत्सवः प्रवर्तितः । ततः अनेनैव रक्षासूत्रेणैव इन्द्रेण दानवेन्द्रो बलिः बद्धः ।

भारतीय इतिहासे राजपुत्राणां समये राज्ञः स्वरक्षार्थम् एकं बलवतं राजानं निजभ्रातरं मत्वा तस्य हस्ते रक्षाबन्धनम् अकुर्वन् । पुरा अस्मिन्नेव दिने ऋषयः ब्राह्मणाश्च यजमानानां हस्तेषु रक्षासूत्रम् अबध्नन् । ते राजानः यजमानाश्च तेभ्यः प्रचुरं द्रव्यं यच्छन्ति स्म। अधुना तु ब्राह्माणाः सर्व एव न, अपितु केचिदेव , भिक्षुकाः भूत्वा अति स्वल्पधनार्थम् प्रतिगृहं गच्छन्ति-अयं महान् खेदजनकः विषयः ।

अयमुत्सवः प्राधान्येन ब्राह्मणानाम् अस्ति किन्तु अधुना सर्ववर्णमानवाः इमम् उत्सवम् अभिनन्दन्ति । अस्मिन् दिने भगिन्यः अतीव प्रसन्ना दृश्यन्ते । प्रायेण अस्मिन् दिने भगिन्यः स्वपतिगृहात् भ्रातृगृहम् समागत्य भ्रातृणां हस्तेषु रक्षासूत्रं बध्नन्ति । भ्रातृभ्यश्च धनं वस्त्रादिकं लभन्ते । ब्राह्मणाश्च यजमानहस्तेषु रक्षाबन्धनम् विधाय दक्षिणा द्रव्यम् आप्नुवन्ति ।

अस्मिन् उत्सवे प्रतिगृहं घृतखण्डदुग्ध्युक्ताः सूत्रिकाः (सेवई) पच्यन्ते । धर्मप्राणाः जनाः तीर्थस्थानानि गत्वा दानं पुण्यञ्च कुर्वन्ति । नदीषु , सरोवरेषु च स्नानं कुर्वन्ति ।

अयम् उत्सवः भारतीय संस्कृतेः उज्ज्वलतायाः एवं महत्तायाः सूचकोऽसि ।

Rakshabandhan Sanskrit Nibandh | रक्षाबंधन संस्कृत निबंध ।

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉पर्यायवाची शब्दClick Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit, Janmdin Ki Badhai Sanskrit Me, Vegetables Name in Sanskrit,

मम प्रिय भाषा संस्कृत निबंध || Mam Priya Bhasha Sanskrit Nibandha संस्कृत में निबंध कैसे लिखें | Sanskrit me nibandh kaise likhe gkquiz.motivenews.net

digitallycamera.com

2 thoughts on “Rakshabandhan Sanskrit Nibandh | रक्षाबंधन संस्कृत निबंध”

Leave a Comment