Vidyadhanam sarva dhanam pradhanam essay in Sanskrit | विद्याधनम् सर्व धनं प्रधानम्

Vidyadhanam sarva dhanam pradhanam essay in Sanskrit

Vidyadhanam sarva dhanam pradhanam essay in Sanskrit | विद्याधनम् सर्व धनं प्रधानम् ।विद्यते सद् असद् ज्ञानं अनया सा विद्या कथ्यते। विद्या विनयं ददाति । विनयात् पात्रता प्राप्यते पात्रत्वात् धनं प्राप्यते धनाद् धर्मं प्राप्यते तत्पश्चात् सुखं लभते ।

यदुक्तम्

विद्या ददाति विनयं विनयाद् याति पात्रताम् ।

पात्रत्वात् धनमाप्नोति धनाद् धर्मस्ततः सुखम्॥

अन्यं धनं व्यये कृते नश्यति किन्तु विद्याधनं व्यये कृते वर्धते । विद्याधनं चौरोऽपि चोरयितुं न शक्नोति, नृपः अपहर्तुं न शक्नोति । अन्य सुवर्णादिकं धनं भ्रातृषु विभज्यते किन्तु विद्याधनं भ्रातृषु न विभज्यते।केन कविना सत्यमेव उक्तम्-

न चौरहार्य न च राजहार्यम् , न भ्रातृभाज्यं न च भारकारि।

व्यये कृते वर्धति एव नित्यम्, विद्या धनं सर्वधनप्रधानम् ॥

Vidyadhanam sarva dhanam pradhanam essay in Sanskrit

विद्यया शोभा भवति। विद्ययैव मनुष्यः ज्ञानार्जनम् करोति । विद्या बुद्धेः मूर्खतां हरति । विद्या दिशासु कीर्तिम् प्रसारयति। विद्या विदेशगमने स्वबन्धुजनः भवति । अतएव विद्याविहीनः जनः पशुः भवति । विद्यासर्वस्य भूषणम् अस्ति। विद्या गुरूणां गुरुः ।विद्या निराय धनं ददाति, यशः ददाति, सुखं ददाति, सम्मानं च ददाति। अन्यानि धनानि सञ्चयात् पुष्टतां वृद्धिं च यान्ति । परञ्च विद्याधनं सञ्चयात् पुष्टतां वृद्धिं च यन्ति परञ्च विद्याधनं सञ्चयात् अदानात् वा नित्यं क्षयं याति । विद्यायाः कोशः अपूर्वः अद्भुतः च । विद्यया एव विदुषः नरस्य सर्वत्र सम्मानः भवति ।

विद्याप्रभावेण एव ऋषयः मुनयः विद्वान्सः कवयश्च अमराः जाताः । विद्या कल्पलता इव सर्वकार्यसाधिका अस्ति। विद्या माता इव रक्षति, पिता इव हिते नियुङ्क्ते, कान्ता इव खेदम् अपनयति । विद्या सर्वसुखानां कारणम् अस्ति। विद्या लक्ष्मीं तनोति । विद्यया एव यशः वर्धते । राजा तु स्वदेशे पूज्यते, परन्तु विद्वान् सर्वत्र पूज्यते।विद्यायां देशस्यापि प्रतिबन्ध नास्ति । राजानोऽपि तस्याः पुरस्तात् नतमस्तकाः भवन्ति- ‘स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।’विद्या मानवाय यशः प्रददाति, सुखं सम्मानं च यच्छति। विद्यया शोभा भवति, विद्यया एव मानवः ज्ञानार्जनं करोति। मानवजीवने विद्या तु एका कल्पलता वर्तते ।

रूपयौवनसम्पन्नोऽपि विद्याविहीनः जनः न शोभते । राजसु विद्या एव पूज्यते धनं न पूज्यते ।विद्याविहीनः मानवः पशुतुल्यः भवति । मानवजीवने विद्याधनं श्रेष्ठ धनम् अस्ति । अतः सर्वे जनाः स्वपुत्र-पौत्रान् पुत्रीश्च सम्यग् रूपेण पाठयेयुः। वर्तमानसमये तु विद्यायाः अतीव आवश्यकता वर्तते। सत्यमेव उक्तम्-

विद्याधनं सर्वधनं प्रधानम्।’

Vidyadhanam sarva dhanam pradhanam essay in Sanskritपर्यावरण पर संस्कृत में निबंध | Environment Essay in Sanskrit language ,Sanskrit me nibandh kaise likhe | संस्कृत में निबंध कैसे लिखें

इसे भी पढ़ें 👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here

Sanskrit Nibandh Pustakam | संस्कृत निबंध पुस्तकम् motivenews.net Biographyrp.com . digitallycamera.com sarkarijobfinde.com/index.php/2022/12/28/airport-authority-of-india/Vidyadhanam sarva dhanam pradhanam essay in Sanskrit | विद्याधनम् सर्व धनं प्रधानम् Sanskrit me Nibandh

10 thoughts on “Vidyadhanam sarva dhanam pradhanam essay in Sanskrit | विद्याधनम् सर्व धनं प्रधानम्”

Leave a Comment