सन्तोषं परम् सुखम् | Santosham Param Sukham Sanskrit Nibandha

संतोष एव पुरुषस्य परमम् निधानम् ,सन्तोषः परम् सुखम् , Santosham Param Sukham ka Sanskrit Nibandha , संतोष ही सबसे बडा सुख है का निबन्ध संस्कृत में दिया गया है।

Santosham Param Sukham Sanskrit Nibandha

अयमेव सर्वेषां सुखानां मूलमस्ति । सन्तोषः पुरुषस्य महद् धनं कथ्यते । सन्तोषरूपे धने प्राप्ते सति सर्वाणि धनानि प्राप्तानि भवन्ति। सन्तोषेण मानवाः सर्वसुखम् लभन्ते । सन्तोषेण एव मानवाः जीवने प्रसन्नाः भवन्ति । संतोषरहिताः जना अनन्तकोटि धनं प्राप्यापि सदा दुःखिता एव दृश्यन्ते । असंतोषिणां जीवनमशान्तियुक्तं दुःखमयं च भवति । सन्तोषेण विना पराभवं प्राप्नुवन्ति जनाः। सन्तोषः सर्वश्रेष्ठं धनम्। अस्मिन् लोके सन्तोषेण समं किमपि धनं नास्ति । स्वप्रयत्नानां फलस्वरूपं योऽत्र लब्ध्वा तृप्तिमनुभवति स संतोषी कथ्यते य लब्ध्वापि तृप्तिं न लभते सोऽसंतोषी भवति । संतोषिणां चेतांसि परेषां सम्पदम् विलोक्य मलिनानि नैव भवन्ति । अतएवोच्यते-

सर्वत्र संपदस्तस्य, संतुष्टं यस्य मानसम् ।

उपानद्गूढ़वृपादस्य, ननु चर्मातेव भूः ॥

वैभवसम्पन्नशीलाः अपि असन्तोषिणः सर्वदा दुःखं लभन्ते । यत्र सन्तोषिणः अर्थान् न अनुधावन्ति तत्र असन्तोषिणः न केवल शारीरिक कष्टं लभन्ते, अपितु मानसिकं कष्टमपि लभन्ते च । सन्तोषश्चिन्तामणिः इति मनीषिणः वदन्ति तत् शोभनं । जनाः सन्तोषेणादरं लभन्ते । सन्तोषस्यातीव महिमा अस्ति ।

इसे भी पढ़ें 👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here

4 thoughts on “सन्तोषं परम् सुखम् | Santosham Param Sukham Sanskrit Nibandha”

Leave a Comment