तीर्थराज प्रयागः | Tirtharaj Prayag Sanskrit Nibandha



प्रयागवर्णनम्स , तीर्थराजो जयति प्रयागः, Tirtharaj Prayag Sanskrit Nibandha, तीर्थराज प्रयागः आदि का संस्कृत निबंध लिखने को मिले तो इसी प्रकार से लिखेगें।

Tirtharaj Prayag Sanskrit Nibandha

अस्मिन् देशे अनेकानि तीर्थस्थलानि सन्ति यथा— केदारनाथ-बद्रीनाथ- द्वारिका – जगन्नाथपुरी- रामेश्वर- हरिद्वार-काशी-प्रयाग- प्रभृतीनि प्रसिद्धानि तीर्थानि सन्ति । प्रयागः सर्वेषु तीर्थेषु श्रेष्ठः अस्ति अतएव प्रयागराजः तीर्थानां राजा कथ्यते । उत्तरप्रदेशराज्ये प्रयागस्य विशिष्टं स्थानमस्ति । अत्र ब्रह्मा श्रेष्ठं यागम् अकरोत् अतः अस्य नाम ‘प्रयागः’ अभवत्। प्राचीनकालेऽत्र बहवः अश्वमेधादयः यज्ञाः सम्पन्नाः अभवन्। इदं नगरं भारतवर्षस्य प्रमुखनगरेषु वर्तते । प्रयागस्य अपरं नाम ‘इलाहाबाद’ इति अकबरः स्वकीयस्य इलाही धर्मस्य अनुसारेण अकरोत् ।

तीर्थराज प्रयागः गंगायमुनयोः संगमे स्थितः अस्ति । ऋषेः भरद्वाजस्य आश्रमः अपि अत्रैव अस्ति यत्र पुरा दशसहस्रमिताः विद्यार्थिनः अधीतिनः आसन् । प्रयागः विविध विधानां प्रमुखं केन्द्रम् अस्ति । अत्र उच्चशिक्षायाः प्रधानकेन्द्रं प्रयागविश्वविद्यालयं वर्तते। अत्रैव उत्तरप्रदेशस्य राज्यस्य उच्चन्यायालयः, माध्यमिक शिक्षा परिषद् राष्ट्रभाषा – हिन्दी-प्रचारे संलग्नं हिन्दी साहित्य सम्मेलनं प्रसिद्धम् आनन्दभवनं च विराजन्ते ।

भारतस्य स्वतन्त्रतान्दोलनस्य इदं नगरं प्रधानकेन्द्रम् आसीत् । श्रीमोतीलालनेहरू, महामना मदनमोहनमालवीयः आजादोपनामकश्चन्द्रशेखरः, अन्ये च स्वतन्त्रतासंग्रामसैनिकाः अस्यामेव पावनभूमौ उषित्वा आन्दोलनस्य सञ्चालनम् अकुर्वन् । राष्ट्रनायकस्य पण्डित जवाहरलालस्य इयं क्रीडास्थली कर्मभूमिश्च । भारतवर्षस्य त्रयः प्रधानमन्त्रिणः अत्र जन्म अलभन्त । उद्योगव्यापार दृष्ट्या अपि प्रयागः उत्तरप्रदेशेषु पञ्चसु महानगरेषु एकतमोऽस्ति ।

एवं गङ्गा-यमुना-सरस्वतीनां पवित्रसङ्गमे स्थितस्य भारतीयसंस्कृतेः केन्द्रस्य च महिमानं वर्णयन् महाकविः कालिदासः सत्यमेव अकथयत् –

Rakshabandhan Sanskrit Nibandh | रक्षाबंधन संस्कृत निबंध ,

संस्कृत में निबंध कैसे लिखें | Sanskrit me nibandh kaise likhe

digitallycamera.com

22 thoughts on “तीर्थराज प्रयागः | Tirtharaj Prayag Sanskrit Nibandha”

  1. Pingback: Sanskrit Shlokas
  2. Pingback: Sahajan Ke Fayade

Leave a Comment