Sadachar Nibandh in Sanskrit , सदाचार का संस्कृत में निबंध , आचारः प्रथमो धर्मः, शीलं परं भूषणम् , आचारः परमो धर्मः –इस तरह के किसी भी टापिक पर निबंध लिखने को मिले तो निम्न प्रकार से लिखेगें।
Sadachar Nibandh in Sanskrit
सत् आचरणमेव सदाचारः कथ्यते । यथा सत्पुरुषाः आचरन्ति तथैव आचरणमपि सदाचारः उच्यते। उत्तमजीवनस्य सर्वोत्तमं साधनं सदाचार एव अस्ति । सदाचारवान् नरः सुखं प्राप्नोति । स धार्मिको, बुद्धिमान् दीर्घायुश्च भवति । सदाचारस्य अन्याः बहवः गुणाः सन्ति। यथा माता पितरौ गुरूणां च आज्ञायाः पालनं वन्दनं च अहिंसा, परोपकारः, नम्रता, दयादयश्च ।
सत्यमेव उक्तम्–
आचाराल्लभते ह्यायुराचारादीप्तिताः प्रजाः । आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥
सामाजिकोत्थानाय सदाचारस्य महती आवश्यकता वर्तते । यः जनः सत्यं वदति, नित्यं माता-पितरौ अभिवादयति, गुरुजनानाम् आदरं करोति, परोपकारं च करोति, तस्य जनस्य आयुर्विद्यादि वद्धन्ते ।
अभिवादनशीलस्य नृत्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशोबलम् ॥
मूर्खाणामेव जीवनं सदाचारविहीनं भवति । सोऽल्पायुः भवति तस्य सर्वत्र निरादरो भवति । आचारहीनः पुरुषः धर्महीनः पुण्यहीनश्च भवति । सदाचारेण नरस्य आदरो भवति। जगति तस्य प्रतिष्ठा भवति। अस्माकं देशे काले काले बहवः सदाचारिणोऽभवन् । | सदाचारेण श्रीरामचन्द्रः मर्यादा पुरुषोत्तमोऽभवत् राणासेतारादयोपि सदाचारिणः आसन् । सदाचारेण मानवः राष्ट्रस्य समाजस्य च कल्याणं कर्तुं शक्नोति । अतोऽस्माभिः सदाचारस्य पालनं कर्तव्यम् मनुनाप्युक्तम्-
सर्वलक्षणहीनोऽपि यः सदाचारवान् नरः ।
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥
Sadachar Nibandh in Sanskrit 10 lines
- सत् आचरणमेव सदाचारः कथ्यते ।
- यथा सत्पुरुषाः आचरन्ति तथैव आचरणमपि सदाचारः उच्यते।
- उत्तमजीवनस्य सर्वोत्तमं साधनं सदाचार एव अस्ति ।
- सदाचारवान् नरः सुखं प्राप्नोति ।
- स धार्मिको, बुद्धिमान् दीर्घायुश्च भवति ।
- सदाचारस्य अन्याः बहवः गुणाः सन्ति।
Sadachar Nibandh in Sanskrit
Sadachar Nibandh in Sanskrit , सदाचार का संस्कृत में निबंध , आचारः प्रथमो धर्मः, शीलं परं भूषणम् , आचारः परमो धर्मः –इस तरह के किसी भी टापिक पर निबंध लिखने को मिले तो इसी प्रकार से लिखेगें।
इसे भी पढ़ें 👇👇👇
👉देवतात्मा हिमालयः का संस्कृत में निबंध | Click Here |
👉होलिकोत्सवः का संस्कृत में निबंध | Click Here |
👉तीर्थराज प्रयागः का संस्कृत में निबंध | Click Here |
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंध | Click Here |
👉संस्कृत में सभी फलों के नाम | Click Here |
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहित | Click Here |
👉शब्द रूप संस्कृत में | Click Here |
👉संस्कृत में निबंध कैसे लिखें | Click Here |
इसे भी पढ़ें | Click Here |
1 thought on “Sadachar Nibandh in Sanskrit || सदाचार का संस्कृत में निबंध”