बाणभट्ट का जीवन परिचय संस्कृत में | Banbhatt Biography in Sanskrit

Banbhatt Biography in Sanskrit ,बाणभट्ट का जीवन परिचय संस्कृत में, वाणी बाणो बभूव हि, मम प्रेयान् कविः, बाणोच्छिष्टं जगत्सर्वम् , बाणभट्टः, बाणस्तु पञ्चाननः आदि का संस्कृत में निबंध।

Banbhatt Biography in Sanskrit

बाणभट्ट का जीवन परिचय संस्कृत में Banbhatt Biography in Sanskrit

बाणभट्टस्य पितुः नाम चित्रभानुः मातुश्च राज्यदेवी आसीत्। जननानन्तरमेव अयं मातृसुखविहीनोऽभवत्। दौर्भाग्येन उपनवन संस्कारानन्तरमेव अयं पितृविहीनोऽपि जातः । बाणस्य पार्श्वे पैतृकं प्रचुरं धनमासीत्। मित्राणिनैकविधस्वभावकानि आसन् विद्वांसः चौराः, नर्तकाः, नटाः, ऐन्द्रजालिकादयः सर्वे बाणप्रिया आसन्। कालान्तरे स्वगुणैर्विद्वत्तया च बाणः हर्षदेवस्य राजकविजतः। हर्षवर्धनस्तं ‘वश्यवाणीकविचक्रवर्ती’ उपाधिनाऽभूषयत् । बाणभट्टस्य जन्मभूमिः प्रीतिकूटसमीपे आसीत्। ऐतिहासिकैरस्य कालः 450-480 ईस्वीयाब्द; स्वीकृतः । ‘हर्षचरितम्’ बाणस्य प्रथमा गद्यकृतिरस्ति । कल्पनाप्रचुरायां अलंकारपूरितायां शैल्यां तात्कालिकसामाजिक व्यवस्था, राजनीतिकादर्शदशा दर्शनीयैव । पितृव्यभ्रात्रा श्यामलेन हर्षचरिते श्रवणेऽभिरुचिः प्रकटिता तदाबाणभट्टेन तं श्रावयितुं हर्षचरितं विरचितम्। अस्मिन् ग्रन्थे बाणेन स्वकीयं जीवनवृत्तं काव्यसौष्ठवपूर्वकं व्यरचि । राज्ञो हर्षवर्धनस्य चरितम् तस्य वैभवम्, प्रभावम् च जीवनादिमरणान्तं व्यरचयत् ।

कादम्बर्यामवान्तरकथानामाधिवयभवनेऽपि तस्याः नैसर्गिकविकासे नास्ति क्वचिदतिविरोधः । कादम्बरी मुख्या नायिका तस्याश्चर्चा ग्रन्थारम्भे न विद्यतेऽपि तु मध्ये कृता, अतः पाठकानामुत्तरोत्तरमुत्कण्ठा वर्धते। उपोद्घाते महाश्वेतायाः प्रणयकथा विद्यते, प्रारम्भे शूद्रकनृपतेः सभायामद्भुतेन शुकेन सह चाण्डालकन्यायाः प्रवेशः प्रदर्शितः ।

‘कादम्बरी’ ग्रन्थस्य पात्राणि भूलोकतः स्वर्गलोकपर्यन्तं पर्यटन्ति । कथायां बाणवृत्तिस्तादृशी न रमते यादृशी- अप्रासंगिक वर्णनेषु तथापि तस्य पात्राणि व्यक्तित्वसहितानि सन्ति । शुकनासनामकमन्त्रिणश्चरित्रचित्रणम्, श्वेतवसनभूषितायाः, तपस्विकन्याः- महाश्वेतायाश्चरित्रचित्रणं कादम्बर्याश्चानुपमं स्वरूपवर्णनम् पाठकानां हृदये स्वप्रभावमङ्कयन्ति । Banbhatt Biography in Sanskrit

बाणभट्ट का जीवन परिचय संस्कृत में, वाणी बाणो बभूव हि, मम प्रेयान् कविः, बाणोच्छिष्टं जगत्सर्वम् , बाणभट्टः, बाणस्तु पञ्चाननः आदि का संस्कृत में निबंध दिया है। Banbhatt Biography in Sanskrit

इसे भी पढ़ें 👇👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
Sanskrit Counting 1 to 100 digitallycamera.com

Leave a Comment