परोपकार पर निबंध संस्कृत में , Essay on Paropkar In Sanskrit language , परोपकाराय सतां विभूतयः, परोपकारस्य महत्त्वम् , परोपकारः पुण्याय आदि का संस्कृत भाषा में निबंध निम्न प्रकार से लिखेंगे।

Essay on Paropkar In Sanskrit language
परेषाम् उपकारमेव ‘परोपकारः’ इति कथ्यते। कतिपयाः पुरुषाः स्वार्थमेव सर्वप्रधानं गणयन्ति परेषां कृते किंचित् न कुर्वन्ति, परन्तु सर्वे एतादृशाः न सन्ति । केचन् महापुरुषाः परोपकारिणः भवन्ति । परोपकारमाचरतोऽप्यन्तः करणे कश्चिदवर्णनीयः सन्तोषः समुत्पद्यते । परोपकारेणात्मा शान्तिं प्राप्नोति । सज्जनाः परोपकारेणैव प्रसन्नाः भवन्ति । परोपकारेणैव हृदयं पवित्रं सदयश्च भवति । परोपकारः हिन्दुसभ्यतायाः प्रधानमङ्गमस्ति । प्राचीनकालात् हिन्दुजातौ प्रसिद्धाः परोपकारशीला महानुभावाः अभवन्।
महान् परोपकारी दधीचिः आसीत् । स वृत्रासुर वधार्थं स्वअस्थीन्यपि अददात् । महाराजः शिवः कपोतरक्षार्थं स्वमासं श्येनाय प्रायात्। आधुनिकयुगे जवाहरलालनेहरूमहोदयः सर्वान् स्वार्थान् विहाय स्वदेशवासिनां हिताय प्रयत्नं कुर्वन् स्वजीवनमपि अमुञ्चत्। लोकोपकारः परोपकारिणां स्वभावसिद्धो धर्म इति । परोपकाराय दिनकरः तपति । नद्यो वहन्ति, मेघाः वषन्ति, चन्द्रो विराजते। परोपकारेणैव नूनं शरीरस्य शोभा भवति । कायक्लेशमनुभूयापि सन्तः करुणापराः परेषामुपकारमाचरन्ति ।
परोपकारिणः जना एव तडाग कूपादीन् खानयन्ति, उद्यानानि आरोपयन्ति, धर्मशालां पाठशालां च निर्मापयन्ति । अतः कथयितुं शक्यते यत् परोपकार भावनया एव अस्माकं, अस्माकं देशस्य वासिनाम् कल्याणं भवति । परोपकार भावनैव अस्माकं देशस्य च कल्याणः भवितुं शक्यते ।Essay on Paropkar In Sanskrit language
इसे भी पढ़ें 👇👇👇
👉देवतात्मा हिमालयः का संस्कृत में निबंध | Click Here |
👉होलिकोत्सवः का संस्कृत में निबंध | Click Here |
👉तीर्थराज प्रयागः का संस्कृत में निबंध | Click Here |
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंध | Click Here |
👉संस्कृत में सभी फलों के नाम | Click Here |
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहित | Click Here |
👉शब्द रूप संस्कृत में | Click Here |
👉संस्कृत में निबंध कैसे लिखें | Click Here |
1 thought on “परोपकार पर निबंध संस्कृत में | Essay on Paropkar In Sanskrit language”