परोपकारः संस्कृत निबंध | Paropkar ka Sanskrit Nibandh

परोपकारः संस्कृत निबंध | Paropkar ka Sanskrit Nibandh, परोपकारः पापाय परपीडनम् ,परोपकारः पुण्याय पापाय परपीडनम् इन सभी का निबंध निम्न प्रकार से लिखेंगे :

Paropkar ka Sanskrit Nibandh

परेषाम् उपकारमेव ‘परोपकारः’ इति कथ्यते । कतिपयाः पुरुषाः स्वार्थमेव सर्वप्रधानं गणयन्ति परेषां कृते किंचित् न कुर्वन्ति, परन्तु सर्वे एतादृशाः न सन्ति । केचन् महापुरुषाः परोपकारिणः भवन्ति । परोपकारमाचरतोऽप्यन्तःकरणे कश्चिदवर्णनीयः सन्तोषः समुत्पद्यते । परोपकारेणात्मा शान्तिं प्राप्नोति । सज्जनाः परोपकारेणैव प्रसन्नाः भवन्ति । परोपकारेणैव हृदयं पवित्रं सदयश्च भवति। परोपकारः हिन्दुसभ्यतायाः प्रधानमङ्गमस्ति । प्राचीनकालात् हिन्दुजातौ प्रसिद्धाः परोपकारशीला महानुभावाः अभवन्।

महान् परोपकारी दधीचिः आसीत् । स वृत्रासुर वधार्थं स्वअस्थीन्यपि अददात् । महाराजः शिवः कपोतरक्षार्थं स्वमासं श्येनाय प्रादात् । आधुनिकयुगे जवाहरलालनेहरूमहोदयः सर्वान् स्वार्थान् विहाय स्वदेशवासिनां हिताय प्रयत्नं कुर्वन् स्वजीवनमपि अमुञ्चत्। लोकोपकारः परोपकारिणां स्वभावसिद्धो धर्म इति । परोपकाराय दिनकरः तपति । नद्यो वहन्ति, मेघाः वषन्ति, चन्द्रो विराजते । परोपकारेणैव नूनं शरीरस्य शोभा भवति । कायक्लेशमनुभूयापि सन्तः करुणापराः परेषामुपकारमाचरन्ति । परोपकारिणः जना एव तडाग कूपादीन् खानयन्ति, उद्यानानि आरोपयन्ति, धर्मशालां पाठशालां च निर्मापयन्ति । अतः कथयितुं शक्यते यत् परोपकार भावनया एव अस्माकं, अस्माकं देशस्य वासिनाम् कल्याणं भवति । परोपकार भावनैव अस्माकं देशस्य च कल्याणः भवितुं शक्यते ।

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit, Essay on my village in Sanskrit Paropkar ka Sanskrit Nibandh

Leave a Comment