राष्ट्रभाषा हिन्दी का संस्कृत में निबंध || अस्माकं राष्ट्रभाषा

राष्ट्रभाषा हिन्दी का संस्कृत में निबंध , अस्माकं राष्ट्रभाषा का निबंध निम्न प्रकार से लिखेगें।

राष्ट्रभाषा हिन्दी का संस्कृत में निबंध



हिन्दी भाषा विविधभाषा बहुले भारते राष्ट्रभाषा पदं भजते । अस्य कारणं हिन्दी भाषायाः देवनागरीलिपिः तथा अस्याः सरलता अस्ति। देवनागरी लिपिः विश्वस्य सुसरला तथा वैज्ञानिकी लिपिः विद्यते। सरलतायाः दृष्ट्या कापि भाषाः अस्याः समतां नैवाधिगच्छति। पाश्चात्याः जनाः सहजतया इमां भाषाम् अध्येतुं शक्नुवन्ति। अद्य तु सर्वेषु एवं देशेषु अस्याः अध्ययनं विधीयते ।

अस्याः भाषायाः महाकवयः कबीर-सूर- तुलसी- जायसी- भूषण- बिहारी प्रसाद पन्त- महादेवी प्रभृतयाः मातुः भारत्याः वरदपुत्राः सन्ति । इमे न केवलं भारतस्य अपितु विश्वस्य मनीषिणामपि मनांसि मोहयन्ति । एभिः भारतीया संस्कृतिः हिन्दी भाषायामवतारिता । अद्य तुलसीदासं, सूरं, प्रसादम् अवबोद्धु पाश्चात्याः भारतभुवमागच्छन्ति। अद्य राजकीय कार्येषु हिन्दीभाषा भ्रशं प्रयुज्यते । किञ्चित्कालात्पूर्वं मौरिशसदेशे विश्व हिन्दी सम्मेलनं जातम् । तत्र विश्वस्य हिन्दी विद्वांसः अनुरागिणश्च समायाताः । सर्वैः हिन्दी प्रेमिभिः अस्याः भाषायाः प्रचाराय प्रसाराय च पुण्यः संकल्पः ग्रहीतः । तत्र भारतेन गम्भीरा भूमिका निर्व्यूढा । अस्माभिः सर्वैः हिन्दी प्रेमिभिः स्वमातृ-भाषायाः प्रचाराय प्रसाराय च सहयोगः प्रदातव्य ।

भारतीयैः स्वराष्ट्रभाषायै एवं महत्त्वं देयम् । अद्य भारते कथ्यते कैश्चिज्जनैः यद् हिन्दी भाषा आन्तर्राष्ट्रीय व्यवहारार्थं नैव क्षमा, परन्तु तैरिदं स्मरणीयं यद् हिन्दी भाषा आन्तर्राष्ट्रीयव्यवहाराय समर्थाऽस्ति सर्वभावेन । यतः हिन्दी भाषायाः विद्वान्सः सर्वेषु एव देशेषु विद्यन्ते । महद्दुःखमद्य तु भारतीयः आंग्लभाषायाः ज्ञानद्वारा आत्मानं ख्यापयति, कृतकृत्यतामनुभवति । तस्य बुद्धौ भ्रमपूर्ण अयं विचारः रूढः सञ्जातोऽस्ति यद् हिन्दीभाषया जीवने कापि उन्नतिः प्राप्तुं न शक्यते ।

राष्ट्रभाषा हिन्दी का संस्कृत में निबंध , अस्माकं राष्ट्रभाषा का निबंध निम्न प्रकार से लिखेगें।

इसे भी पढ़ें 👇👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
Sanskrit Counting 1 to 100 digitallycamera.com

1 thought on “राष्ट्रभाषा हिन्दी का संस्कृत में निबंध || अस्माकं राष्ट्रभाषा”

Leave a Comment